मनुस्मृति अथवा मानवधर्मशास्त्रम् -Manu Smriti or Manab Dharma Sastram अध्याय १ CHAPER 1 १।०१अ- मनुमेकाग्रमासीनमभिगम्य महर्षयः ।१।०१च्- प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१।०२अ- भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।१।०२च्- अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥१।०३अ- त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।१।०३च्- अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥१।०४अ- स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।१।०४च्- प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥१।०५अ- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।१।०५च्- अप्रतर्क्यमविज्ञेयं…